षोडशनामस्तोत्रं
शुक्लाम्बरधरं विष्णुं लिरिक्स
Lyrics Track - Shukla Ambara Dharam Vissnnum
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्ण शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम्
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥
औषधे चिन्तयेद्विष्णुं भोजने च जनार्दनम्
शयने पद्मनाभं च विवाहे च प्रजापतिम् ॥
युद्धे चक्रधरं देवं प्रवासे च त्रिविक्रमम्
नारायणं तनुत्यागे श्रीधरं प्रियसंगमे ॥
दुः स्वप्ने स्मर गोविन्दं संकटे मधुसूदनम्
कानने नारसिंहं च पावके जलशायिनम् ॥
जलमध्ये वाराहं च पर्वते रघुनन्दनम्
गमने वामनं चैव सर्वकार्येषु माधवम् ॥
षोडशैतानि नामानि प्रातरूत्थाय यः पठेत्
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥
| इति श्री विष्णो: षोडशनामस्तोत्रं संपूर्णम् |
टिप्पणी पोस्ट करें